नरकचतुर्दशी-दीपावल्योः – उत्पत्तिः वैशिष्ट्यञ्च

 नरकचतुर्दशी-दीपावल्योः – उत्पत्तिः वैशिष्ट्यञ्च

आंग्लमूलम् – जम्मलमडक श्रीनिवासः । संस्कृतानुवादः – राळ्ळबण्डि प्रेमकुमारः

उपोद्घातः

सनातनधर्मप्रतिष्ठाने भारते देशे विराजन्ते नैके उत्सवाः विधयः आचाराश्च । भारतमूलाः सन्ततयः विश्वस्य सर्वदिग्भागेषु वर्तमानाः तान् आद्रियन्ते श्रद्धया । एते पुण्याः आचाराः शास्त्रमूलाः सर्वतोमुखलाभावहाः सन्तः धर्मिणां जीवने मुख्यत्वं भजन्ते । नरकचतुर्दशी-दीपाल्याख्ये पर्वणी हैन्दवोत्सवमणिहारे महारत्नसङ्काशे वर्तेते ।

एवं सति अधुना धर्मद्विड्भिः यत्नतः सनातनधर्मदूषण-नाशनोद्यमः क्रियमाणः दृश्यते । तस्योदाहरणरूपेण दीपावल्याः “जष्न्-ए-रिवाज्” इति नम्ना अपप्रचारः , तत्पर्वणः “Celebration of Light, Laddoos and Love” इति तुच्छः परिच्छेदः , तस्मिंश्च पर्यावरणकालुष्याक्षेपः सद्यः विहितः आसीत् छलशीलैः । यथा योगविषये कृतं तथैव अस्यापि महापर्वणः सनातनधर्मेण सह सम्बन्धं विच्छेत्तुम् उद्यताः एते । तत्रैकमुदाहरणं भवति तिलकरहितानां महिलानाम् उपयोगः दीपविहीनेषु क्रयणविज्ञापनचित्रेषु । अतः अस्माकं पर्वणां तत्त्वावगमने प्रयत्नविधानम् अत्यन्तं प्रासङ्गिकं भवति । किमिमानि पर्वाणि आधाररहितानि सन्ति येषां यथा कथमपि येन केनापि निर्वचनं निर्वहणं च शक्यते ? सर्वेणापि सनातनधर्मानुयायिना आत्मा प्रष्टव्यः “किम्मूलानि किम्प्रयोजनानि चेमानि पर्वाणि ?” इति । तत्समाधानप्राप्तये सुदृढप्रयत्नश्च विधेयः ।

 अधिकरणपद्धतिः

लेखेऽस्मिन् नरकचतुर्दशी-दीपावल्योः पर्वणोः मूलं महत्त्वं च निरूपयितुं पूर्वमीमांसाशास्त्रसङ्गताम् अधिकरणपद्धतिं समाश्रयामहे । विषयस्य विशदीकरणाय उपयुक्ता भवति अत्यन्तमियं शास्त्रीया अधिकरणपद्धतिः या च पुरा जैमिनीयमीमांसासूत्रभाष्ये बादरायणब्रह्मसूत्रभाष्ये च समादृता दृश्यते । अधिकरणस्य षडङ्गानि भवन्तीति इयं कारिका ज्ञापयति ।

विषयो विशयश्चैव पूर्वपक्षस्थथोत्तरम् । 

प्रयोजनं सङ्गतिश्च शास्त्रेऽधिकरणं स्मृतम्

  1. सङ्गतिः
  2. विषयः
  3. विशयः / संशयः
  4. पूर्वपक्षः
  5. सिद्धान्तः
  6. प्रयोजनम्

एवं षडङ्गसुसम्पन्नायाः पद्धत्त्याः अस्याः आश्रयेण वस्तुनिरूपणं निर्दुष्टरीत्या प्रमादरहितं च विधातुं शक्यते ।

सङ्गतिः

अद्यत्वे प्रतिवर्षमपि अमुयोः पर्वणोः निकटमागतयोः नियतमिव काश्चन चेष्टाः प्रपञ्चे दृष्टिगोचराः भवन्ति । दीपावल्याः आचरणं कथं पर्यावरणकालुष्याय न भवेत् ? इति व्याख्याति कश्चन अभिनेता । कथं कुक्कुरादिपाल्यजन्तूनां हिताय निश्शब्दतया उत्सवः कार्यः इति उपदिशति काचित् दयामयी । किं नरकासुरः कश्चन दलितः आसीद्यस्य मारणेन अग्रजन्मनः तेषामाधिपत्यं भारते स्थापयामासुरिति प्रश्नमुत्थापयति कश्चित् नेता । एवंरूपेण असङ्गतं बहु किमपि वदन्तः सनातनधर्मं लोकगर्ह्यं सम्पादयितुं प्रयतमानाः दरीदृश्यन्ते अधर्मिणः । दूरदर्शनादिषु प्रसारमाध्यमेषु विज्ञापनानि प्रस्तूयन्ते यद्द्वारा रमजान्-आख्ये यवनोत्सवे पुरुषोत्तमस्य रामस्य, दीपावलीति शुभनाम्नि आलीनामकतुरुष्कस्य च नामनी स्तः इतिवत् कृत्रिमैः विचारैः जनप्रतारणम् अनवरतं प्रवर्तते ।

 विषयः

नरकचतुर्दशी दीपावलीति पर्वणी लोकप्रसिद्धे क्रमेण भारतमूलैः सनातनधर्मिभिः सवैभवम् अनुष्ठीयेते विश्वे सर्वत्र । प्रथमं पर्व नरकचतुर्दशी आश्वयुजमासस्य कृष्णचतुर्दश्यां तिथौ समाचर्यते दीपावलिश्च तत्समनन्तरभाविन्याम् अमावास्यायाम् ।

संशयः

उपर्युक्तरीत्या क्रियमाणे कोलाहले केचन संशयाः समुद्भवन्ति एते पर्वणी उद्दिश्य । यदि नरकचतुर्दशीपर्व नरकासुरवधमूलमेव तर्हि को विशेषः अस्य असुरस्य वधस्य विद्यमानेषु भगवता कृष्णेन विहितेषु नैकेषु राक्षसनाशकृत्येषु ? कुतः अन्यराक्षसवधज्ञापकाः उत्सवाः न समाचर्यन्ते ?

अपि च केषुचित् पुरातनेषु चलचित्रेषु नरकासुरकथायां कृष्णः मूर्छितः बभूवेति, तदा तत्सहचरी सत्यभामाख्या भार्यामणिः धनुरादाय असुरेण युद्धं कृत्वा तं समहार्षीदिति च निरूपितम् । किं तत् तथ्यम् ?

तदुपरि दीपावलिविषये… तत्पर्वणः दीपोत्सवत्वं तु लोकप्रसिद्धम् । तस्यां तिथौ वयम् अस्मद्गृहाणि दीपैः समलङ्कुर्मः । परं वयं प्रतिदिनमपि पूजावसरे प्रातः सायंकाले च दीपाराधनं कुर्मः एव । तर्हि कस्यांश्चित् तिथै विशेषदीपज्वालनस्य कः आशयः स्यात् ?

अन्ततो गत्वा अयं प्रश्नः सम्भवति यद् एतयोः पर्वणोः जनविश्रुतत्वात् अन्यत् किञ्चित् मूलं, किञ्चन विशेषप्रयोजनं वा वर्तते किमिति ।

 पूर्वपक्षः

आपाततः (शास्त्रपरिशीलनात् प्राक्) एवं प्रतिभाति यत् अयम् उत्सवः लौकिकसंस्कृत्याधारितः जनप्रियश्चेति । नरकासुरः दुष्टत्वस्य अधर्मस्य वा प्रतीकम् । कृष्णेन सत्यभामया वा विहितः तस्य वधः दैवीशक्तेः शिष्टतायाः च विजयम्, आसुरशक्तेः दुष्टताया च अभिभवं च सूचयति ।

  दीपावलिविषये तु तावत् दीपप्रकाशं ज्ञानस्य, अमावास्यागतम् अन्धकारम् अज्ञानस्य च प्रतीकं मन्यामहे । अस्मिन् पक्षे दीपज्वालनं ज्ञानोत्पत्त्या अज्ञानस्य निरसनं खलु प्रदर्शयति ?

एवम् ऊहः सहजः चेदपि पर्वणोः एतयोः वास्तविकं मूलं महत्त्वं वा स्पष्टतया न ज्ञापयितुमर्हति ।

सिद्धान्तः

धर्मसिन्धुः बहूनां सुविश्रुतानां धर्मशास्त्रग्रन्थानाम् अग्रणीः वर्तते । अस्मिन् ग्रन्थे नैकेषां पर्वदिनानाम् आचरणविधिः बहुसङ्ख्याकानां व्रतानाम् अनुष्ठानपद्धतिः च निरूप्यते ।

एतद्ग्रन्थानुसारम् आश्वयुजमासस्य कृष्णपक्षगता चतुर्दशी नरकचतुर्दशीति निर्दिश्यते । अस्यां तिथौ धर्मानुयायिभिः पञ्च कर्माणि विधेयानि । तानि च –

  1. तैलाभ्यङ्गस्नानम्
  2. कार्तिकस्नानम्
  3. यमतर्पणम्
  4. उल्कादानम् उल्काप्रदर्शनं च
  5. दीपप्रज्वालनम् 

तैलाभ्यङ्गस्नानम्

तिलनिष्पन्नः स्निग्धद्रवः तैलमित्युच्यते । “मूर्ध्नि दत्तं यदा तैलं भवेत्सर्वावङ्गसङ्गितम्स्रोतोभिस्तर्पयेद्बाहू स चाभ्यङ्ग उदाहृतः ॥” इति शब्दकल्पद्रुमे दत्तम् । अभ्यङ्गे मूर्ध्नः आरभ्य सर्वेषु अङ्गेषु तैलस्य योगः विधीयते । विशिष्य बाहुप्रदेशे तैलस्रवणैः सुष्ठु मर्दनं क्रियते अभ्यङ्गावसरे । वाग्भटकृतस्य अष्टाङ्गहृदये अभ्यङ्गः प्रतिदिनं विहितः वर्तते । सर्वाङ्गे तैलमर्दनं कृत्वा शरीरव्यायामं समाप्य स्नानं करणीयम् आरोग्यार्थमिति अत्र उपदिश्यते आयुर्वेदशास्त्रेण । धर्मशास्त्रेण तु केषुचन जन्मदिन-पर्वादिषु विशेषदिनेषु अभ्यङ्गविधानं क्रियते । तेन पर्वगतः नैमित्तिकः अभ्यङ्गविधिः अवश्यम् आचरणीयः भवति । अतः नरकचतुर्दश्याम् अनभ्यङ्गेन प्रत्यवायरूपं पापं सिद्ध्यति । तस्मात् एवमुक्तं धर्मसिन्धौ (पृष्ठसङ्ख्या ९२) – “नरकभीरुभिः तैलेन अभ्यङ्गस्नानं कार्यम्” इति ।

 कुतः तिलतैलम् ?

तिलनिष्पन्नं तैलं तैलराजः इति आयुर्वेदमतम् अस्मिन् इतरेषां सर्वतैलसुगुणानां सद्भावात् । अस्मात् पर्वकालात् प्रायेण भारते  सर्वत्र शैत्यारम्भः जायते । तैलमर्दनेन शरीरे पर्याप्तमात्रेण औष्ण्यसम्भवात् देहोष्णोग्रतास्थित्या आरोग्यं सिद्ध्यति ।

  अभ्यङ्गात् परं स्नानं क्रियते यस्मिन्नवसरे अधस्तनश्लोकोच्चारणपूर्वकं हलोद्धृतेन मृत्पिण्डेन साकम् अपामार्गपत्रं त्रिः भ्राम्यते स्नानोदके ।

सीतालोष्टसमायुक्त सकण्टकदलान्वित

हर पापमपामार्ग भ्राम्यमाणः पुनःपुनः

 स्नानानन्तरं तिलकधारणपूर्वकं नित्यानुष्ठानं विधेयम् ।

कार्तिकस्नानम्

नित्यानुष्ठानात् परं पुनः स्नातव्यम् । इदं द्वितीयं स्नानं कार्तिकस्नानमित्युच्यते यच्च दक्षिणभारतेषु गङ्गास्नानमिति प्रसिद्धम् । कार्तिकस्नानमपि नैमित्तिकं कर्मैव यतो हि आश्विनशुक्लदशम्याः आरभ्य कार्तिकमासस्य शुक्लैकादशीं पूर्णिमां वा यावत् प्रतिदिनमपि प्रातःस्नान-नित्यानुष्ठानपूर्वकं विष्णोः अनुग्रहाय कार्तिकस्नानं कर्तव्यम् । अस्य विधिः एवं निर्दिष्टः —

  •  विष्णवे अर्घ्यप्रदानम् एतच्छ्लोकोच्चारणेन —

नमः कमलनाभाय नमस्ते जलशायिने

नमस्तेऽस्तु हृषीकेश गृहाणार्घ्यं नमोऽस्तु ते

  • तत्परं स्नानाचरणम् एतच्छ्लोकद्वयपठनेन साकम् —

कार्तिकेऽहं करिष्यामि प्रातःस्नानं जनार्दन

प्रीत्यर्थं तव देवेश दामोदर मया सह

ध्यात्वाऽहं त्वां च देवेश जलेऽस्मिन् स्नातुमुद्यतः

तव प्रसादात्पापं मे दामोदर विनश्यतु

  • पुनः द्विः अर्घ्यं देयं राधासहायाय कृष्णाय । तदुपयुक्तौ श्लोकौ इमौ —

नित्ये नैमित्तिके कृष्ण कार्तिके पापनाशने

गृहाणार्घ्यं मया दत्तं राधया सहितो हरे

व्रतिनः कार्तिके मासि स्नातस्य विधिवन्मम

गृहाणार्घ्यं मया दत्तं राधया सहितो हरे

 यः निर्दिष्टरीत्या मासं यावत् कार्तिकस्नानं कैश्चित् कारणैः कर्तुम् अशक्तः सः दिनत्रयं वा तदाचरेत् । तदपि कर्तुम् अक्षमः चेत् अवश्यं नरकचतुर्दश्यां कार्तिकस्नानं कुर्यात् ।

यमतर्पणम्

कार्तिकस्नानं समापितवता यमाय तर्पणं कार्यम् । तर्पणं नाम देवताभ्यः श्रद्धापुरस्सरं जलदानम् । यमतर्पणं धर्मदेवतायाः चतुर्दशभिः नामभिः विधेयम् । तेषाञ्च नाम्नां ज्ञापकमिदं  श्लोकद्वयम् —

यमाय धर्मराजाय मृत्यवे चाऽन्तकाय च  ।

वैवस्वताय कालाय सर्वभूतक्षयाय च  ॥

औदुम्बराय धर्माय नीलाय परमेष्ठिने  ।

महोदराय चित्राय चित्रगुप्ताय ते नमः  ॥

  तर्पणदानावसरे चित्रे दर्शितरीत्या जलं दैवतीर्थमिति निर्दिश्यमानात् अथवा पितृतीर्थवचिनः हस्तभागात् त्यक्तव्यम् । प्रतिनाम त्रिवारं तर्पयामि इति उच्चारणीयम् यथा “यमाय तर्पयामि तर्पयामि तर्पयामि । धर्मराजाय तर्पयामि तर्पयामि तर्पयामि । ….” अस्मिन्नवसरे तर्पयित्रा दक्षिणाभिमुखेन भाव्यं यतो हि यमः तद्दिक्पालकः वर्तते । तर्पणविधिः उपनयनसंस्कारवतां विहितः । तस्मिन्नवसरे यज्ञोपवीतं निवीततया (कण्ठहारः इव) धार्यम्, केचित् तु सव्यमेव उपनीतं भवेदित्यपि वदन्ति। येषाम् उपनयसंस्कारः न विहितः ते दक्षिणाभिमुखाः सन्तः उपरितनं श्लोकद्वयं पठेयुः ।

उल्कादानम् उल्काप्रदर्शनं च

उल्का नाम तद्वस्तु यस्मात् प्रकाशः जायते । प्रकृते तावत् स्फोटकानि वस्तूनि (sparklers, crackers etc.) उल्कापदवाच्यानि ग्राह्याणि । यमतर्पणात् परम् अन्येभ्यः (मित्रेभ्यः बान्धवेभ्यः वा) उल्काः दीयन्ते ।

 किम् उद्दिश्य उल्कादानम् ?

भाद्रपदमासस्य कृष्णपक्षः महालयपक्षः पितृपक्षः इति च उच्यते यस्मिन् काले अस्मत्पितरः ऊर्ध्वलोकेभ्यः अस्माकम् अनुग्रहाय भुवम् अवतरन्ति । अतः अस्मिन् पक्षे श्राद्धानि विधीयन्ते धर्मरतैः । एताः पितृदेवताः नरकचतुर्दश्याः प्रभृति स्वलोकं प्रतियान्ति । उल्काभ्यः उद्गतेन प्रकाशेन तेषां मार्दर्शनं सम्भवतीति भावेन उल्काप्रदर्शनम् आचरामः । अतः उल्कादानावसरे श्लोकौ एतौ उच्चारयामः ।

अग्निदग्धाश्च ये जीवाः येऽप्यदग्धाः कुले मम ।

उज्ज्वलज्योतिषा दग्धास्ते यान्तु परमां गतिम् ॥

यमलोकं परित्यज्य आगता ये महीतले ।

उज्ज्वलज्योतिषा वर्त्म प्रपश्यन्तु व्रजन्तु ते ॥

अस्मिन् पर्वणि सायङ्काले दीपाः ज्वाल्यन्ते तथैव नभोऽपि उल्कादहनेन प्रकाशितं भवति ।

नरकासुरवधः तस्य नरकचतुर्दशीपर्वणा सह सम्बन्धः च

धर्मसिन्धुग्रन्थे नरकवधस्य उल्लेखः एव नास्ति पर्वाचरणप्रसङ्गे । उपर्युक्तरीत्या नरकचतुर्दश्याचरणं यमतर्पण-पितृदेवतासम्मानन-परं निरूपितं वर्तते तत्र । कैश्चिदुच्यते यत् प्रामाणिकैः आचार्यैः नरकवधसङ्गतिः अस्य पर्वणः अङ्गीकृता इति । अतः नरकासुरकथा अस्माभिः पुराणेषु अन्विष्टा त्रिषु स्थलेषु प्राप्ता च ।

  1. श्रीमद्भागवते (दशमस्कन्धस्य उत्तरार्धे ऊनषष्टितमे अध्याये) 
  2. हरिवंशे (खिलमहाभारते विष्णुपर्वणः त्रिषष्टितमे अध्याये)
  3. विष्णुपुराणे (पञ्चमांशस्य ऊनत्रिंशे अध्याये)

त्रिषु अपि एतेषु ग्रन्थेषु हरिवंशे विस्तृता गाथा प्रदत्ता वर्तते नरकासुरसंहारस्य । विष्णुपुराणे संक्षिप्ततमं वर्णनं कृतम् । तयोर्मध्ये श्रीमद्भागवते निरूपिता कथा तिष्ठति दैर्घ्यदृष्ट्या । सूक्ष्मविवरणानि विहाय तु कथायाः स्वरूपं स्थलत्रयेऽपि समानं वर्तते अधोदत्तरीत्या ।

  • नरकः प्राग्ज्योतिषपुरस्य राजा आसीत् ।
  • स च भूदेव्याः पुत्रः इत्यस्मात् भौमः भूमासुरः इत्यपि कथितः ।
  • देवमातुः अदितेः कुण्डले अपाहरत् ।
  • षोडशसहस्रं राज-देव-कुलेषु जाताः योषितः तेन निगृहीताः ।
  • देवानां प्रार्थनया भगवान् श्रीकृष्णः सत्यभामासहितः नरकेण युद्धाय पातिष्ठत । सङ्ग्रामे तम् असुरं न्यहनत् च ।
  • भूदेवी अदितेः कुण्डले प्रत्यार्पयत् ।

न कस्मिन्नपि ग्रन्थे नरकचतुर्दश्या सह अस्याः घटनायाः सम्बन्धः सूचितः । न वा श्रीकृष्णस्य मूर्छागमनं सत्यभामया नरकासुरनिबर्हणं वा उक्तम् । कैश्चिदन्यैः उच्यमानरीत्या नरकसंहारज्ञापकतया चतुर्दश्याः आचरणं भूदेव्या प्रार्थितमिति च न क्वापि लक्षितम् । अतः पर्वणः नरकवधस्य च सम्बन्धः तर्कसम्मतं प्रामाणिकं वा नैव प्रतिभाति इति निष्कर्षः कार्यः अस्माभिः ।

नरकसंहारस्य अस्य उत्सवस्य च सङ्गत्यां न कापि हानिः जायते इति ज्ञेयम् । तथापि प्रमाणराहित्यात् तत्प्रतिपादयित्र्यः गाथाः नास्माकम् आदरमर्हन्ति । यतो हि अप्रामाणिकानां धारणानां कारणात् अपप्रचाराः लोके जायन्ते धर्माचरणे बाधाजनकाः पदे पदे भवन्तीति अनुभवः वरीवर्तते । 

दीपावलिः

नरकचतुर्दश्याः समनन्तरम् अमावास्यातिथौ दीपावलिपर्व आचर्यते । दीपानाम् आवलिः इति विग्रहम् उच्यते अस्य नाम्नः । अस्मिन् शुभावसरे एते विधयः उक्ताः धर्मशास्त्रे —

  1. अभ्यङ्गस्नानम्
  2. दीपदानम्
  3. लक्ष्मीपूजनम्
  4. दीपप्रज्वलनम्
  5. उल्काप्रदर्शनम्

दीपदानाद् आरभ्य उक्तानां विधीनां प्रयोजनं भवति लक्ष्मीप्राप्तिः अलक्ष्मीनिरसनं च । अत्र लक्ष्म्यलक्ष्म्योः पदयोः अर्थः धनविषयकतया सीमितः न ग्राह्यः । परम् अत्र मेधा-अन्न-पुत्रादिरूपा बहुविधसम्पन्नता सूच्यते ।

प्रयोजनम्

उपरि निदर्शितरीत्या नरकचतुर्दशी-दीपावली पर्वणी धर्मशास्त्र-पुराणमूले इति निस्संशयं ज्ञायते । तदङ्गतया पाल्यमानाः आचाराः नैकार्थान्विताः पुरुषार्थप्रापकाः च । एतेषां विधीनां शास्त्रोक्तरीत्या पुनःपरिचयद्वारा वयं सर्वे स्वसंस्कृत्याम् इतोप्यधिकम् आदरं वहन्तः, क्रियमाणेषु विधिषु श्रद्धां वर्धयन्तश्च पुण्यभारतस्य सनातनधर्मस्य च नवोत्कर्षं साधयेम ।

यदत्र सौष्ठवं किञ्चित् तद्गुरोरेव मे न हि ।

यदत्राऽसौष्ठवं किञ्चित् तन्ममैव गुरोर्न हि ॥

॥ एतत् फलं श्रीपरमेश्वरार्पणमस्विति शम् ॥

Srinivas Jammalamdaka & Premkumar Rallabandi

Srinivas Jammalamdaka is traditionally trained in Tarka Shastra, Vyakarana and, Advaita Vedanta. He currently is working as an Assistant professor in the Department of Bharatiya Darshan, Kavikulaguru Kalidas Sanskrit University, Ramtek. Premkumar Rallabandi is a chemical engineer living in USA. Samskrita Bharati karyakarta. A person intrested in activities which will lead to Indic renaissance.

0 Reviews

Related post